Wednesday, May 3, 2017

Yoga Darshan

॥ पातञ्जलयोगसूत्राणि ॥
॥ श्री पातञ्जल-योग-सूत्राणि ॥

॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
Notes: 
1. Scriptural works: Vedas, Upanishads, Puranas, Smritis
2. Many works are 'Sutras' - Brahma Sutra, Narad Bhakti Sutra, Patanjali Yoga Sutra
3. Sutras are short abridged content - pointers to the subject matter
4. Commentaries - Bhashyas
5. Sub Commentaries - Vartikas/ Vritti Bhashyas
6. Characteristics of Sutras:
  • minimal
  • unabiguous
  • intended idea in all its perspectives
  • fault free in concept
7. Darshanas: (Shad Darshanas)
  • a: Poorva Mimansa (Rishi Jaimini)
  • b: Uttar Mimansa (Vyasa)
  • c: Nyaya (Gautama)
  • d: Vaiseshika (Kanada)
  • e: Sankhya (Kapila)
  • f: Yoga (Patanjali)
8. Darshanas work around: a) Jiva, b) Ishwara, c) Jagat
9. Darshanas such as Charvak, Boddha - atheistic 
10. Sankhya: a) Knowledge, b) Numbers
  • 24 + 1 Tattvas
  • Prasava - Descension - Srishti Krama - Sankhya
11. Ascension, Prati-Prasava, Samhara Krama - Yoga
12. Yoga Sutras: Metaphysical exercise for ascension to the absolute state - Kaivalya.

॥ प्रथमोऽध्यायः ॥ ॥ समाधि-पादः ॥ अथ योगानुशासनम् ॥ १॥
Now, the discipline of yoga begins.

अथ

  • Now; a transition indicating the commencement of a new subject or practice.

योग

  • Yoga; union, discipline, or the practice of uniting the mind, body, and spirit.

अनुशासनम्

  • Discipline or instruction; a structured or systematic approach to a practice.

Yogasudhakar:
  • Yuj > Yoga > denotes the state of Samadhi
  • Goal: Two types of Samadhi - Samprajnata (संप्रज्ञात ) and Asamprjnata (असंप्रज्ञात)
  • Characteristic qualities of mind:
    • Rajas+ - Kshipta satate of mind (क्षिप्तं)
    • Tamas+ - Moodham (मूढं)
    • Satwa+ - Vikshiptam (विक्षिप्तं)
    • Pure Satwik - Ekagram (एकाग्रं)
    • NistraiguNya - Niruddham(निरुद्धम)
  • Bh.Gita 2-45: त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान॥
  • Thus, when the mind relinquishes the first three planes of activities (kshiptam, moodham, vikshiptam) and gets associated with the last two planes (ekagram & niruddham), it acquires the nature and qualities to achieve the two types of samadhis.
  • Now sage Patanjali aims to present the normal characteristic features of the two types of samadhis.
योगश्चित्तवृत्तिनिरोधः ॥ २॥
Yoga is the cessation of the fluctuations or modifications of the mind.

योगः

  • Yoga; union, or the state of being in harmony, often referring to the practice or the goal of yoga.

चित्त

  • Mind; consciousness, encompassing the mind, intellect, and ego.

वृत्ति

  • Modifications, fluctuations, or activities; referring to the mental patterns or disturbances.

निरोधः

  • Cessation, control, or restraint; the act of stopping or restraining.

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३॥ वृत्तिसारूप्यमितरत्र ॥ ४॥ वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ ५॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १०॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ १३॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६॥ वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १७॥ विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २०॥ तीव्रसंवेगानामासन्नः ॥ २१॥ मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ २२॥ ईश्वरप्रणिधानाद्वा ॥ २३॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४॥ तत्र निरतिशयं सार्वज्ञबीजम् ॥ २५॥ स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६॥ तस्य वाचकः प्रणवः ॥ २७॥ तज्जपस्तदर्थभावनम् ॥ २८॥ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९॥ व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३०॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५॥ विशोका वा ज्योतिष्मती ॥ ३६॥ वीतरागविषयं वा चित्तम् ॥ ३७॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥ यथाभिमतध्यानाद्वा ॥ ३९॥ परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ ४०॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१॥ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५॥ ता एव सबीजः समाधिः ॥ ४६॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७॥ ऋतम्भरा तत्र प्रज्ञा ॥ ४८॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९॥ तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५०॥ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥ ॥ द्वितीयोऽध्यायः ॥ ॥ साधन-पादः ॥ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥ सुखानुशयी रागः ॥ ७॥ दुःखानुशयी द्वेषः ॥ ८॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ ९॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १०॥ ध्यानहेयास्तद्वृत्तयः ॥ ११॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५॥ हेयं दुःखमनागतम् ॥ १६॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २०॥ तदर्थ एव दृश्यस्यात्मा ॥ २१॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३॥ तस्य हेतुरविद्या ॥ २४॥ तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५॥ विवेकख्यातिरविप्लवा हानोपायः ॥ २६॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३०॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१॥ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥ अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः ॥ ३९॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४०॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन-योग्यत्वानि च ॥ ४१॥ संतोषादनुत्तमसुखलाभः ॥ ४२॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ ४३॥ स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ ४४॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५॥ स्थिरसुखम् आसनम् ॥ ४६॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७॥ ततो द्वन्द्वानभिघातः ॥ ४८॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९॥ स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५०॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१॥ ततः क्षीयते प्रकाशावरणम् ॥ ५२॥ धारणासु च योग्यता मनसः ॥ ५३॥ स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ॥ ॥ तृतीयोऽध्यायः ॥ ॥ विभूति-पादः ॥ देशबन्धश्चित्तस्य धारणा ॥ १॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ २॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३॥ त्रयमेकत्र संयमः ॥ ४॥ तज्जयात्प्रज्ञालोकः ॥ ५॥ तस्य भूमिषु विनियोगः ॥ ६॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ८॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ १०॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५॥ परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ १६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥ प्रत्ययस्य परचित्तज्ञानम् ॥ १९॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २०॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२॥ मैत्र्यादिषु बलानि ॥ २३॥ बलेषु हस्तिबलादीनि ॥ २४॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५॥ भुवनज्ञानं सूर्ये संयमात् ॥ २६॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७॥ ध्रुवे तद्गतिज्ञानम् ॥ २८॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३०॥ कूर्मनाड्यां स्थैर्यम् ॥ ३१॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२॥ प्रातिभाद्वा सर्वम् ॥ ३३॥ हृदये चित्तसंवित् ॥ ३४॥ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९॥ समानजयाज्ज्वलनम् ॥ ४०॥ श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूल- समापत्तेश्चाकाशगमनम् ॥ ४२॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५०॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२॥ जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३॥ तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ ५४॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः ॥ ॥ चतुर्थोऽध्यायः ॥ ॥ कैवल्य-पादः ॥ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३॥ निर्माणचित्तान्यस्मितामात्रात् ॥ ४॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५॥ तत्र ध्यानजमनाशयम् ॥ ६॥ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥ १०॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ११॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४॥ वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८॥ न तत्स्वाभासं दृश्यत्वात् ॥ १९॥ एकसमये चोभयानवधारणम् ॥ २०॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१॥ चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३॥ तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४॥ विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥ हानमेषां क्लेशवदुक्तम् ॥ २८॥ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३०॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ३१॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ॥ ॥ इति श्री पातञ्जल-योग-सूत्राणि ॥

No comments:

Post a Comment

Dattātreya Yogaśāstra

ॐ द्रां दत्तात्रेयाय नमः।  This is a comparative study of the yoga methods prescribed in: Markandeya Purana [https://archive.org/details/Ma...